|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.65. अध्यायः 065
Mahabharata - Udyoga Parva - Chapter Topics
धृतराष्ट्रेण दुर्योधनंप्रति अर्जुनस्य श्रीकृष्णपरमप्रेमास्पदतया दुर्जयत्वभिधानपूर्वकं पाण्डवैः सह सन्धिविधानम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
5-65-0(34233)
धृतराष्ट्र उवाच। 5-65-0x(3592)
दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक।
उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः ॥ 5-65-1(34234)
पञ्चानां पाण्डुपुत्राणां यत्तेजः प्रजिहीर्षसि।
पञ्चानामिव भूतानां महतां लोकधारिणाम् ॥ 5-65-2(34235)
युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम्।
परां गतिमसंप्रेत्य न त्वं जेतुमिहार्हसि ॥ 5-65-3(34236)
भीमसेनं च कौन्तेयं यस्य नास्ति समो बले।
रणान्तकं तर्जयसे महावातमिव द्रुमः ॥ 5-65-4(34237)
सर्वशस्त्रभृतां श्रेष्ठं मेरुं सिखरिणामिव।
युधि गाण्डिवधन्वानं को नु युध्येत बुद्धिमान् ॥ 5-65-5(34238)
धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत्।
शत्रुमध्ये शरान्मुञ्चन्देवराडशनीमिव ॥ 5-65-6(34239)
सात्यकिश्चापि दुर्धर्षः संमतोऽन्धकवृष्णिषु।
ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः ॥ 5-65-7(34240)
यः पुनः प्रतिमानेन त्रील्लोकानतिरिच्यते ।
तं कृष्णं पुण्डरीकाक्षं को नु युद्ध्येत बुद्धिमान् ॥ 5-65-8(34241)
एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः।
आत्मा च पृथिवी चेयमेकतश्च धनञ्जयः ॥ 5-65-9(34242)
वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः ।
अविषह्यं पृथिव्यापि तद्बलं यत्र केशवः ॥ 5-65-10(34243)
तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम्।
वृद्धं शान्तनवं भीष्मं तितिक्षस्व पितामहम् ॥ 5-65-11(34244)
मां च ब्रुवाणं शुश्रूष कुरूणामर्थदर्शिनम् ।
द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम् ॥ 5-65-12(34245)
एते ह्यपि यतैवाहं मन्तुमर्हसि तांस्तथा।
सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत ॥ 5-65-13(34246)
यत्तद्विराटनगरे सह भ्रातृभिरग्रतः।
उत्सृज्य गाः सुसन्त्रस्तं बलं ते समशीर्यत ॥ 5-65-14(34247)
यच्चैव नगरे तस्मिञ्श्रूयते महदद्भुतम्।
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ॥ 5-65-15(34248)
अर्जुनस्तत्तथाकार्षीत्किं पुनः सर्व एव ते।
स भ्रातॄनभिजानीहि वृत्त्या तं प्रतिपादय ॥ ॥ 5-65-16(34249)
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि पञ्चषष्टितमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-65-1 उत्पथं अमार्गमेव मार्गं त्वन्यसे ॥ 5-65-6 न शातयेत् न छिन्द्यात् ॥ 5-65-8 प्रतिमानेन तुल्यत्वेन ॥ 5-65-11 भीष्मं तितिक्षस्य तद्वाक्यं गृहाणेत्यर्थः ॥ 5-65-16 वृत्त्या राज्यार्धदानेन प्रतिपादय संभावय ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|